दीर्घञ्जीवितीयोऽध्यायः

श्लोक 1

अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः ||१||

श्लोक 2

इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3

दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्। इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||

श्लोक 4-5

ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः । जग्राह निखिलेनादावश्विनौ तु पुनस्ततः||४||
अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्।
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्||५||

श्लोक 6-7

विघ्नभूता [१] यदा रोगाः प्रादुर्भूताः शरीरिणाम्| तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् [२] ||६||
तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः । समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ||७||

श्लोक 8-14

अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः।
आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः||८|| अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ| पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः||९||
विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्| गार्ग्यः शाण्डिल्यकौण्डिल्यौ (न्यौ) वार्क्षिर्देवलगालवौ||१०||
साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः । बडिशः शरलोमा च काप्यकात्यायनावुभौ||११||
काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ। शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च ||१२||
शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः । वैखानसा वालखिल्यास्तथा चान्ये महर्षयः ||१३||
ब्रह्मज्ञानस्य निधयो द(य) मस्य नियमस्य च। तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ||१४||

श्लोक 15-17

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्||१५||
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च। प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्||१६||
कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः । अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा||१७||
स वक्ष्यति शमोपायं यथावदमरप्रभुः|१८|

श्लोक 18-23

कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम्||१८||
अहमर्थे नियुज्येयमत्रेति प्रथमं वचः । भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः||१९||
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् [१] | ददर्श बलहन्तारं [२] दीप्यमानमिवानलम् ||२०||
सोऽभिगम्य [३] जयाशीर्भिरभिनन्द्य सुरेश्वरम्। प्रोवाच विनयाद्धीमानृषीणां [४] वाक्यमुत्तमम्||२१||
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः। तद्ब्रूहि मे शमोपायं यथावदमरप्रभो||२२||
तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः । पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये||२३||

श्लोक 24

हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्।
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः||२४||

श्लोक 25-26

सोऽनन्तरं त्रिस्कन्धमायुर्वेदं महामतिः । यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः ||२५||
तेनायुरमितं [१] लेभे भरद्वाजः सुखान्वितम्| ऋषिभ्योऽनधिकं तच्च [२] शशंसानवशेषयन्||२६||

श्लोक 27-29

ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्। दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः||२७||
महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा |
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च ||२८||
समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः । लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् [१] ||२९||

श्लोक 30-31

अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया ||३०||
अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः। हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः||३१||

श्लोक 32-40

अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः । हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः||३१||
बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः |
तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्||३२||
अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च । श्रावयामासुरात्रेयं सर्षिसङ्घ सुमेधसः||३३||
श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्। यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे||३४||
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः। साधु [१] भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५||
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः। सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ||३६||
-अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा (ना) दयत्। नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः ||३७||
शिवो वायुर्ववी सर्वा भाभिरुन्मीलिता दिशः | निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः ||३८||
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः ।
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया ||३९||
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः । भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे ||४०||

श्लोक 41

हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्। मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||४१||

श्लोक 42

शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्| नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते||४२||

श्लोक 43

तस्यायुषः पुण्यतमो वेदो वेदविदां मतः।
वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम् [१] ||४३||

श्लोक 44

सर्वदा [१] सर्वभावानां सामान्यं वृद्धिकारणम्। ह्रासहेतुर्विशेषश्च, प्रवृत्तिरुभयस्य तु||४४||

श्लोक 45

सामान्यमेकत्वकरं, विशेषस्तु पृथक्त्वकृत्| तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः || ४५||

श्लोक 46-47

सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्। लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम् ||४६||
स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम्। वेदस्यास्य, तदर्थं हि वेदोऽयं सम्प्रकाशितः||४७||

श्लोक 48

खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः । सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्||४८||

श्लोक 49

सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः। गुणाः प्रोक्ताः …|४९| प्रोक्ताः…|४९| … प्रयत्नादि कर्म चेष्टितमुच्यते||४९||

श्लोक 50

समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः ।
स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः || ५०||

श्लोक 51

समवायोsपृथग्भावो भूम्यादीनां गुणैर्मतः । तद्द्रव्यं …|५१|
…. समवायी तु निश्चेष्टः कारणं गुणः ||५१||

श्लोक 52

संयोगे च विभागे च कारणं द्रव्यमाश्रितम्।
कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते||५२||

श्लोक 53

इत्युक्तं कारणं…|५३|
… कार्यं धातुसाम्यमिहोच्यते।
धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्||५३||

श्लोक 54

कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च| द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः ||५४||

श्लोक 55

शरीरं सत्त्वसञ्ज्ञं च व्याधीनामाश्रयो मतः|
तथा सुखानां, योगस्तु सुखानां कारणं समः||५५||

श्लोक 56

निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः ।
चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः||५६||

श्लोक 57

वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः। मानसः पुनरुद्दिष्टो रजश्च तम एव च||५७||

श्लोक 58

प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः ।
मानसो ज्ञानविज्ञान धैर्यस्मृतिसमाधिभिः||५८||

श्लोक 59-61

रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः। विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९||
सस्नेहमुष्णं [१] तीक्ष्णं च द्रवमम्लं सरं कटु | विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०||
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः। श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||

श्लोक 62

विपरीतगुणैर्देशमात्राकालोपपादितैः।
भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः ||६२||

श्लोक 63

साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|६३| भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||

श्लोक 64

रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा | निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ||६४||

श्लोक 65

स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च।
कषायश्चेति षट्कोऽयं रसानां सङ्ग्रहः स्मृतः ||६५||

श्लोक 66

स्वाद्वम्ललवणा वायुं कषायस्वादुतिक्तकाः । जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः ||६६||
(कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्। कटुतिक्तकषायाश्च कोपयन्ति समीरणम् [१] ||१||)|

श्लोक 67

किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्।
स्वस्थवृत्तौ मतं किञ्चित्त्रिविधं द्रव्यमुच्यते||६७||

श्लोक 68-73

तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम् [१] | मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम् || ६८||
विण्मूत्रचर्मरतोऽस्थिस्नायुशृङ्गनखाः खुराः। जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः||६९||
सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा मनःशिलाले मणयो लवणं गैरिकाञ्जने||७०||
भौममौषधमुद्दिष्टमौद्भिदं तु चतुर्विधम् ।
वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथौषधिः||७१||
फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि। ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः||७२||
मूलत्वक्सारनिर्यासनाल(ड)स्वरसपल्लवाः।
क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः||७३||
पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः | ७४|

श्लोक 74-76

पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः | ७४| मूलिन्यः षोडशैकोना फलिन्यो विंशतिः स्मृताः||७४||
महास्नेहाश्च चत्वारः पञ्चैव लवणानि च।
अष्टौ मूत्राणि सङ्ख्यातान्यष्टावेव पयांसि च||७५||
शोधनार्थाश्च षड् वृक्षाः पुनर्वसुनिदर्शिताः ।
य एतान् वेत्ति संयोक्तुं विकारेषु स वेदवित्||७६||

श्लोक 77-79

हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा | सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि ||७७||
ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका | अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी || ७८||
शणपुष्पीच बिम्बी चच्छर्दने हैमवत्यपि ।
श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने || ७९||

श्लोक 80-85

एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने। इत्युक्ता नामकर्मभ्यां मूलिन्यः…|८०| …फलिनीः शृणु ||८०||
  -शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च । धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्।
-आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम् ||८१||
प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया| -अन्तः कोटरपुष्पी च हस्तिपर्ण्याश्च [१] शारदम्||८२|| –
कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च| -धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्||८३||
मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी । एतानि वमने चैव योज्यान्यास्थापनेषु च||८४||
नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते। दश यान्यवशिष्टानि तान्युक्तानि विरेचने||८५||

श्लोक 86-87

नामकर्मभिरुक्तानि फलान्येकोनविंशतिः | ८६| सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः [१] ||८६||
पानाभ्यञ्जनबस्त्यर्थं नस्यार्थं चैव योगतः | स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः ||८७||

श्लोक 88-91

स्नेहा ह्येते च विहिता सौवर्चलं सैन्धवं च विडमौद्भिदमेव च||८८||
सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च। स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि [१] च||८९||
– आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा । -अधोभागोर्ध्वभागेषु निरूहेष्वनुवासने||९०||
अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने| शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च||९१||

श्लोक 92-104

अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे। उक्तानि लवणा (नि)…|९२|
… न्यू (ऊ) र्ध्वं मूत्राण्यष्टौ निबोध मे||९२|| मुख्यानि यानि दिष्टानि [१] सर्वाण्यात्रेयशासने। अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत् [२] ||९३||
हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च।
उष्णं तीक्ष्णमथोऽरूक्षं [३] कटुकं लवणान्वितम्||९४||
मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च। युक्तमास्थापने मूत्रं युक्तं चापि विरेचने||१५|| स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च।
उदरेष्वथ चार्शःसु गुल्मिकुष्ठिकिलासिषु [४] ||९६||
तद्युक्तमुपनाहेषु परिषेके तथैव च।
दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते||९७||
पाण्डुरोगोपसृष्टानामुत्तमं शर्म [५] चोच्यते। श्लेष्माणं शमयेत् पीतं मारुतं चानुलोमयेत् ||९८||
कर्षेत् पित्तमधोभागमित्यस्मिन् गुणसङ्ग्रहः| सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते ||९९||
-अविमूत्रं सतिक्तं स्यात् स्निग्धं पित्ताविरोधि च| आजं कषायमधुरं पथ्यं दोषान्निहन्ति च||१००||
गव्यं समधुरं किञ्चिद्दोषघ्नं क्रिमिकुष्ठनुत् | कण्डूं च शमयेत् पीतं सम्यग्दोषोदरे हितम्||१०१||
अर्श: शोफोदरघ्नं तु सक्षारं माहिषं सरम् । हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम्||१०२||
प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम्| सतिक्तं श्वासकासघ्नमर्शोघ्नं चौष्ट्रमुच्यते||१०३||
वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम्।
खरमूत्रमपस्मारोन्मादग्रहविनाशनम्||१०४||

श्लोक 105-113

इतीहोक्तानि मूत्राणि यथासामर्थ्ययोगतः|१०५ | – अतः [१] क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च ये ||१०५||
-अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत् ।
उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा||१०६||
प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम् |
बृंहणं वृष्यं मेध्यं बल्यं मनस्करम्||१०७||
वयं श्रमहरं श्वासकासनिबर्हणम्।
हन्ति शोणितपित्तं च सन्धानं विहतस्य च || १०८||
सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा ।
तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च ||१०९||
पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे ।
-अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः [२] ||११०||
योनिशुक्रप्रदोषेषु मूत्रेष्वप्रचुरेषु च ।
पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम्||१११||
नस्यालेपावगाहेषु वमनास्थापनेषु [३] च| विरेचने स्नेहने च पयः सर्वत्र युज्यते||११२|| यथाक्रमं क्षीरगुणानेकैकस्य पृथक् पृथक्। अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः ||११३||

श्लोक 114-115

अथापरे त्रयो वृक्षाः पृथग्ये फलमूलिभिः । स्नुह्यर्काश्मन्तकास्तेषामिदं कर्म पृथक् पृथक् ||११४||
वमनेऽश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने । क्षीरमर्कस्य विज्ञेयं वमने सविरेचने||११५||

श्लोक 116-119

इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितास्त्वचः। पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः ||११६||
विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा। कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते||११७||
दद्रुविद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च। षड्वृक्षाञ्छोधनानेतानपि विद्याद्विचक्षणः ||११८||
इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च| मूत्रं क्षीराणि वृक्षाश्च षड् [१] ये दिष्टपयस्त्वचः||११९||

श्लोक 120-123

ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने। अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः||१२०||
न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः। ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति||१२१||
योगवित्त्वप्यरूपज्ञस्तासां [१] तत्त्वविदुच्यते| किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक् || १२२||
योगमासां तु यो विद्याद्देशकालोपपादितम्। पुरुषं पुरुषं वीक्ष्य स ज्ञेयो [२] भिषगुत्तमः || १२३||

श्लोक 124-125

यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा | तथौषधमविज्ञातं विज्ञातममृतं यथा||१२४||
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः | विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते||१२५||

श्लोक 126-133

योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्। भेषजं चापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम्||१२६||
तस्मान्न भिषजा युक्तं युक्तिबाह्येन भेषजम्। धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा || १२७||
कुर्यान्निपतितो मूर्ध्नि सशेषं वासवाशनिः । सशेषमातुरं कुर्यान्नत्वज्ञमतमौषधम्||१२८||
दुःखिताय शयानाय श्रद्दधानाय रोगिणे | यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति||१२९||
त्यक्तधर्मस्य पापस्य मृत्युभूतस्य [१] दुर्मतेः। नरो नरकपाती स्यात्तस्य सम्भाषणादपि||१३०||
वरमाशीविषविषं क्वथितं ताम्रमेव वा। पीतमत्यग्निसन्तप्ता भक्षिता वाऽप्ययोगुडाः||१३१||
नतु श्रुतवतां वेशं बिभ्रता शरणागतात्। गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात् || १३२||
भिषग्बुभूषुर्मतिमानतः स्वगुणसम्पदि|
परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम्||१३३||

श्लोक 134

तदेव युक्तं भैषज्यं यदारोग्याय कल्पते।
सचैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत् ||१३४||

श्लोक 135

सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्| सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम्||१३५||

श्लोक 136-140

तत्र श्लोकाः-
आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम्। सूत्रणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः || १३६||
सम्पूर्णं कारणं कार्यमायुर्वेदप्रयोजनम्। हेतवश्चैव दोषाश्च भेषजं सङ्ग्रहेण च||१३७||
रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसङ्ग्रहः । मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च||१३८||
मूत्रं क्षीराणि वृक्षाश्च षड् ये क्षीरत्वगाश्रयाः। कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः||१३९||
वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः । सर्वमेतत् समाख्यातं पूर्वाध्याये महर्षिणा ||१४०||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने दीर्घञ्जीवि
यो नाम प्रथमोऽध्यायः||१||